ऐश्वर्यरहस्यम् The secret of wealth

रामपुरे रामचन्द्रः कश्चन धनिकः । रिक्तहस्तेन सः तं ग्रामं प्रविष्टवान् आसीत् । आगमनानन्तरम् एकवर्षाभ्यन्तरे भूमिं सम्पादितवान् आसीत् ।
सः पुनश्च पञ्चवर्षाभ्यन्तरे धनिकपङ्क्तौ स्थानं प्राप्तवान् च । रामचन्द्रः अल्पे अवधौ कथं धनिकः जातः इति तद्ग्रामीणः शरभः बहुचिन्तनानन्तरम् अपि ज्ञातवान् ।
कथञ्चित् एतत् रहस्यं ज्ञातव्यम् एव इति चिन्तयन् सः एकदा सायङ्काले रामचन्द्रस्य गृहं गतवान् । तदा रामचन्द्रः एकं दीपं प्रज्वाल्य प्रकोष्ठे मध्ये स्थापयन् आसीत् ।
शरभं दृष्ट्वा सन्तोषं प्रकटयन् रामचन्द्रः आदरपूर्वकम् उक्तवान् । विशेषकारणेन आगतवान् इति भाति । तथा किमपि नास्ति इति उक्त्वा शरभः । स्वकीयसन्देहं पृष्टवान् ।
आवां समानग्रामीणौ स्नेहितौ किल किमर्थं रहस्यं मह्यं निवेदयति भवान् । अत्र किं रहस्यम् इति वदन् रामचन्द्रः । एकं लघुकटं भूमौ प्रसार्य शरभं तत्र उपवेशितवान् ।
अन्तः गत्वा दीपं निर्वाप्य बहिः आगतवान् । शरभस्य पार्श्वे उपविश्य "इदानीं वार्तालापं कुर्मः" इति उक्तवान् च ।
शरभः आश्चर्येण "इदानीं आगमनसमये दीपं किमर्थं निर्वापितवान् इति अहम् ज्ञातवान् प्रथमं तस्य कारणं वदतु" इति उक्तवान् ।
रामचन्द्रः सहजस्वरेण "सुखम् उपविश्य वार्तालापार्थ दीपः किमर्थम्? दीपः ज्वलति चेत् वृथा तैलव्ययः ।
"अनपेक्षितव्ययः किमर्थ करणीयः" इति पृष्टवान् एतत् श्रुत्वा शरभः झटिति उत्थाय "ज्ञातवान् अहम् अस्तु पुनः मिलामः" इति उक्त्वा ततः प्रस्थितः ।
"किमपि रहस्यं ज्ञातव्यम् इति पृष्टवान् किल" इति पृष्टवान् रामचन्द्रः । "भवत् कथनतः पूर्वम् एव भवतः व्यवहारेण तत् रहस्यम् अहम् ज्ञातवान्" इति वदन् शरभः स्वगृहं गतवान् एव